pathata samskritam | पठत संस्कृतम् |

0
7108

पठत संस्कृतम्… sanskrit songs

पठत संस्कृतम्, वदत संस्कृतम्
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥

ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभि: ॥१॥ ॥ पठत ॥

स्थानमूर्जितं यस्य मन्वते
वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना जना नैव जानते 
भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥२॥ ॥ पठत ॥

जयतु संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु संस्कृतम्, जयतु मनुकुलम्
जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥३॥ ॥ पठत ॥ – श्री मञ्जुनाथशर्मा


यह भी पढ़ें


LEAVE A REPLY

Please enter your comment!
Please enter your name here