Home Sanskrit essay हिमालयः | Essay on Himalayas in Sanskrit

हिमालयः | Essay on Himalayas in Sanskrit

1
11655
Essay on Himalayas in Sanskrit

हिमालयः

हिमस्य आलयः हिमालयः, अनया व्युत्पत्त्या शब्दोऽयं निष्पद्यते। एषः पर्वतानां राजा कथ्यते। अनेनैव अस्य अन्यत् नाम ‘नगाधिराजः’ अपि अस्ति। भारतवर्षस्य सर्वेषु पर्वतेषु असौ प्रधानः पर्वतः अस्ति। देशस्य उत्तरस्यां दिशि स्थितोऽयं भारतमातुः शुभ्रः किरीटः इव आभाति। पर्वतराजोऽयं प्रहरी इव अस्माकं राष्ट्रस्य रक्षामपि करोति।

हिमालयः दिव्यानाम् औषधीनां आकरोऽस्ति, मृगेन्द्राणां क्रीडास्थली, वनस्पतीनां निधानम्, पर्यटकानां च स्वर्गमस्ति। रामायणे लिखितम् यत् रामरावणयोः युद्धे मेघनादस्य शक्त्या मूर्छितः लक्ष्मणः अस्मिन् पर्वते स्थितया संजीवनी नाम दिव्यौषधी द्वारा एव पुनर्जीवितो अभवत् । औषधीः एषा रामभक्तेन हनुमता आनीता एकस्यां रात्रौ एव।

पर्वतोऽयं हिमाच्छादितोऽस्ति। अस्य शिखराणि अतीव उच्चानि सन्ति। अत्र खनिजपदार्थाः बाहुल्येन प्राप्यन्ते। विविधानि स्वादूनि फलानि अपि अत्रैव जायन्ते। वृक्षेषु ‘देवदाराः’ अत्र समधिकरूपेण उपलभ्यन्ते। नगाधिराजेऽस्मिन् उत्पन्नानि, फलानि, काष्ठानि, पुष्पाणि, रत्नानि च अस्माकं देशस्य लाभाय एव खलु सन्ति। अद्यापि अत्र स्थितासु गुहासु बहवः योगिनः साधनारताः विद्यन्ते।

प्रतिवर्ष अत्र स्वदेशीयाः विदेशीयाश्च पर्वतारोहिणः आगत्य स्व लक्ष्यं पूर्णं कुर्वन्ति। पर्वतराजोऽयं बहूनां नदीनाम् उद्गमस्थानम् अस्ति। गंगा-यमुना प्रभृतयः नद्यः हिमालयात् एव निर्गच्छन्ति, भारतभूमिं च सिञ्चन्ति स्व पावनेन जलेन।

महाभारते पुराणेषु च हिमालयस्य अतीव महिमा वर्णितः अस्ति। युधिष्ठिरादयः पाण्डवाः अत्र आगत्य खलु मोक्षं प्राप्तवन्तः, इति कथा महाभारते उल्लिखिता वर्तते। महाकविकालिदासेन स्वकुमारसम्भवे महाकाव्ये अस्यैव हिमालयस्य वर्णनम् अनेन प्रकारेण कृतम्-

अस्त्युत्तरस्यां दिशि देवतात्मा,
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधीवगाह्य,
स्थितः पृथिव्याः इव मानदण्डः ।।

वस्तुतः नगाधिराजोऽयं उत्तरदिशि स्थितः देवतातुल्योऽस्ति। सर्वेषु पर्वतेषु श्रेष्ठत्वं भजते अनेन ‘नगाधिराजः’ सञ्जातः। न केवलं एतत् अपितु स्व स्थितिः कारणेन पर्वतोऽयं पृथिव्याः मानदण्डः इव प्रतिभाति। अस्य स्थितिः अतीव महत्त्वपूर्णा अस्ति।

कथ्यते यत् देवानां वासः अत्रैव अस्ति। शिवः स्व- गणैः सह अस्मिन्नेव पर्वते योग-साधना-लीनः भवति। पर्वतेऽस्मिन् बहवः जलप्रपाताः सन्ति। उत्तुङ्ग शिखराद् जलपातेन महानादो भवति, वातावरणे शीतानिजलकणानि व्याप्तानि भवन्ति। दृश्योऽयं अतीव मनोहरो भवति। अत्र पक्षिणां मधुरं कलरवमपि सदैव श्रूयते।

प्रातः काले देवदारूणां मध्यात् निर्गत्य भुवनभास्करस्य किरणानि पर्वतीयानां नदीनां जले पतन्ति, तदानीं तेषां बहूनि प्रतिबिम्बानि तारकगणा इव मनोहरानि प्रतीयन्ते। वस्तुतः हिमालयोऽयं अस्माकं कृते देशस्यार्थे च गौरवसदृशः अस्ति।


1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here