अवनितलं पुनरवतीर्णा स्यात् | Avanitalam Punaravateer Naasyat | Samskrit Song

2
6996

संस्कृतगङ्गाधारा | Avanitalam Punaravateer Naasyat

अवनितलं पुनरवतीर्णा स्यात्
संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धारा: ॥

निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहतात् ज​नमनसि 
पुत्रसहस्रं समुद्धृतं स्यात्
यान्तु च जन्मविकारा: ॥  ॥ धीरभगीरथवंशोऽस्माकं…॥

ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचारा: ॥  ॥ धीरभगीरथवंशोऽस्माकं…॥

या माता संस्कृतिमूला 
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु 
लसतु चिरं सा वाङ्माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूरा: ॥  ॥ धीरभगीरथवंशोऽस्माकं…॥

डा. नारायणभट्टः


यह भी पढ़ें


2 COMMENTS

  1. Heya just wanted to give you a brief heads up and let you know a
    few of the images aren’t loading correctly. I’m not sure why but I think its a linking issue.
    I’ve tried it in two different web browsers and both show the same outcome.

LEAVE A REPLY

Please enter your comment!
Please enter your name here