ग्रीष्मर्तुः
वसन्तर्तोः अनन्तरं ग्रीष्मस्य आगमनं भवति। ग्रीष्मकाले सूर्यः प्रचण्डवेगेन तपति। ग्रीष्मस्य तीक्ष्णेन आतपेन सर्वे मानवाः पशु-पक्षिणश्च संतप्ताः व्याकुलाश्च भवन्ति। सर्वे च ते जलं प्रति धावन्ति । श्रान्ताः पथिकाः वृक्षाणां छायां सेवन्ते। ग्रीष्मे तडागाः शुष्काः भवन्ति। नद्यः सूक्ष्माः अल्पतोयाश्च भवन्ति।
ग्रीष्मर्तों प्रखरातपेन संत्रस्ताः सर्वे जनाः मुहुर्मुहुः ‘आह, ओह, उफ ‘इतिशब्दानि बहुविधानि कुर्वन्ति। अस्मिन् काले पक्षिणः सर्वाधिकाः व्याकुलाः प्रतीयन्ते, यतोहि स्व गलदण्डम् अतिवेगेन चालयन्तः ते निदाघप्राबल्यं सङ्के तयन्ति। अस्य ऋतोः वर्णनं महाकविकालिदासेन ऋतुसंहारे गीतिकाव्ये अतीव सुन्दरं कृतम्-
र वेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांसुभि ।
अवाङ्मुखो जिह्मगतिः श्वसन् मुहुः
फणी मयूरस्य तले निषीदति ।।
ऋतुः एषः प्राणिनां वैरभावमपि स्वाभाविकं दूरीकरोति, तदैव तु मयूरः परस्परवैरभावं विस्मृत्य स्व आश्रितं सर्प छायाशान्तिं सुखं च ददाति। कीदृशं सुन्दरं मनोहारि च वर्णनम् अस्ति। निदाघेऽस्मिन् वनवासिनः प्राणिनः सिंहाः, गजाः, मृगाश्च सर्वे आतपेन संतप्य तरूणां घनपल्लव-छायासु उपविश्य नेत्राणि निमील्य स्व स्व वैरं विस्मरन्ति। शिरीषकुसुमानि अस्मिन् ऋतौ एव विकसन्ति।
अस्मिन् ऋतौ शीतलेन जलेन स्नानं अतीव रोचते। गृहकार्येषु कार्यालयेषु च संलग्नाः जनाः विद्युत्व्यञ्जनैः काञ्चित् शान्तिं लभन्ते, किन्तु कृषकाः प्रखरे निदाघेऽपि स्वक्षेत्रेषु कार्याणि कुर्वन्ति। तेषां शरीरेभ्यः श्रमस्वेदकणानि निरन्तरं प्रवहन्ति, ते अस्य चिन्तां विहाय स्व देशस्य राष्ट्रस्य कृते परिश्रमं कठोरं कुर्वन्ति। वस्तुतः सूर्यस्यप्रखरतरैः किरणैः संतप्ताः अपि ते कृषकाः दुःखानि अनुभूय सर्वान् जनान् सुखिनः कुर्वन्ति। ग्रीष्मर्तो दिवसाः परिणामे रमणीयाः भवन्ति।
एवमेव छात्राः स्ववार्षिकपरीक्षानन्तरं ग्रीष्मावकाशं प्राप्य स्व-स्वग्रामेषु सम्बन्धिनां गृहेषु वा गच्छन्ति, तत्र मनोविनोदपूर्वकं स्वकालं नयन्ति । स्वपरीक्षाफलं प्रतीक्ष्यमाणाः ते ग्रीष्मेऽपि प्रचण्डे सन्तप्ताः समये समये “अतीव उष्णता वर्तते अद्य तु “इति उक्त्त्वा कथं कथमपि स्वदिवसान् यापयन्ति । ये धनिनः सन्ति ते कारयानेन स्वपरिवारजनैः सह तीर्थस्थानेषु नदीषु वा गत्वा आमोदं प्रमोदं च कुर्वन्ति। एवं ऋतुरेषः वस्तुतः अतीव कष्टप्रदः सर्वेषां प्राणिनां कृते, तथापि महाकविकालिदासेन अभिज्ञानशाकुन्तले ग्रीष्मवर्णनं अतीव मनोहरं कृतं विद्यते-
सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिः वनवाताः ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ।।










Thank you for this essay.
मुझे ग्रीष्म ऋतु पर इसी तरह का एक सरल संस्कृत निबंध चाहिए था। इस निबंध के लिए धन्यवाद।
Language zyada tough nahi hai, isi wajah se essay smoothly padhne me aa jata hai. Exam preparation ke liye bhi kaafi kaam ka article hai.
I really enjoyed reading this essay on the summer season in Sanskrit. It was written simply and clearly, and I liked how it explained the season step by step. It helped me understand the topic better, especially as a beginner.