उद्यानम्
‘उद्यानम्’ इत्यनेन शब्देन कस्य मनः आह्लादं न अनुभवति। यतोहि अनेन शब्देन ताः मधुर-क्षणानां स्मृतयः स्मृतिपथे आयान्ति, यानि बाल्यकाले स्वमित्रैः सह उद्याने क्रीडता अस्माभिः व्यतीतानि सन्ति। अस्माकं समाजे सर्वे खलु जनाः उद्यानानां महत्त्वं जानन्ति, तदैव नगरेषु, ग्रामेषु, महानगरेषु च सर्वत्रैव उद्यानानि अनेकानि भवन्ति।
उद्याने बहवः वृक्षाः भवन्ति, तेषु केचन फलान्विताः, केचन च केवलं पुष्पान्विताः। केषुचित् स्थलेषु उद्यानं परितः परिखा एका निर्मीयते। अनया पशवः उद्याने प्रविष्टाः न भवन्ति। उद्यानेऽस्मिन् पक्षिणः वृक्षेषु मधुरं कलरवं कुर्वन्ति। भ्रमराः पुष्पेषु गुञ्जन्ति स्व प्रियया सह प्रातः काले, यदा अस्मिन् पुष्पाणि विकसन्ति तेषु मधुपानं च कुर्वन्ति।
बहवः जनाः अस्मिन्नेव समये सायंकाले च स्वास्थ्य लाभाय उद्यानमध्ये भ्रमणार्थ आगच्छन्ति। केचित् आध्यात्मिकाः जनाः अत्र आगत्य एकान्ते भगवत् ध्यानं कुर्वन्ति। अत्र अनेकेषां वृक्षाणां छाया अतीव सघना वर्तते अनेन सा ग्रीष्मकाले रम्या सुखदायिनी च भवति। बहवः पथिकाः अस्मिन् उद्याने मध्याह्नकाले विश्राममपि कुर्वन्ति।
अस्माकं नगरमध्येऽपि एकम् उद्यानम् अस्ति। तस्य उद्यानस्य नाम ‘उपाध्याय उद्यानम्’ वर्तते। तस्मिन् जम्बीर-आम्र द्राक्षा-अमृतफल-निम्बादीनां विविधश्रेणीनां वृक्षाः सन्ति। तत्र एकं जलयन्त्रमपि विद्यते। तस्मात् जलयन्त्रात् जलधाराः निरन्तरेण प्रवहन्ति। दृश्योऽयं अतीव मनोरमः प्रतीयते। ग्रीष्मका ले अस्य परितः अनेके जनाः स्थित्वा शीतलतां आह्लादकताम् अनुभवन्ति।
अस्मिन् उद्याने स्थाने-स्थाने कोमलानि शष्पाणि विस्तृतानि। अस्योपरि स्थित्वा जनाः परमसुखम् अनुभवन्ति। उद्यानेऽस्मिन् एकः कूपोऽपि वर्तते। तस्मादेव कूपात् अस्मिन् सर्वेभ्यः वृक्षेभ्यः जलसेचनं क्रियते। अस्य उद्यानस्य रक्षणाय एकः मालाकारोऽपि अत्र नियुक्तोऽस्ति। सः खलु अस्य परिरक्षणं, संरक्षणं च करोति। सः प्रातः कालाद् रात्रिपर्यन्तं अस्मिन् कार्यं करोति। सः कमपि जनं अस्माद् उद्यानात् पुष्पचयनार्थं अनुमतिः न ददाति। अस्य उद्यानस्य एकः एव प्रवेशद्वारः वर्तते। वस्तुतः उद्यानमेतत् अस्माकं नगरस्य शोभा अस्ति।
प्राचीनकालेऽपि राजानः स्वप्रसादेषु उद्यानं नियोजयन्ति स्म। तत्र ते स्व परिजनैः सह मनोरंजनं कुर्वन्ति स्म। एतत् राजोद्यानम् कथ्यते स्म। सर्वेषां जनानां प्रवेशः अत्र निषिद्धिः आसीत्। यतोहि तानि सार्वजनिकानि उद्यानानि न भवन्ति स्म।
एतैः उद्यानैः अस्मत्कृते बहवः लाभाः सन्ति। सर्वप्रथमं तु एतानि अस्मत्कृते परिशुद्धं वायुं ददति। अनेन एतेषां उद्यानानां पर्यावरणस्य शुद्धयर्थं महत्त्वपूर्ण योगदानं वर्तते। एतेभ्यः वृक्षेभ्यः दैन्योपयोगिनी काष्ठानि फलानि च प्राप्यन्ते। पूजनकार्येषु पुष्पाणि उपलभ्यन्ते। फलानि खलु वयं प्रीतिपूर्वकं एतेषां खादामः, छायायां च परमशान्तिम् अनुभवामः।
किं बहुना एतानि उद्यानानि सर्वप्रकारेण खलु अस्मत्कृते लाभाय एव भवन्ति। अनेनैव केनचित् कविना एतेषां उद्यानानां प्रशंसा विषये मनोरमं पद्यमेतत् विरचितम्-
वहन्ति वाताः सुमनोज्ञगन्धाः,
पिबन्ति पुष्पेषु मधुद्विरेफाः।
खादन्ति वृक्षेषु खगाः फलानि-
छायासु पान्थाः अपि संविशन्ति।।