Home Sanskrit essay दण्डिनः पदलालित्यम् | Essay on Dandinah Padalalityam in Sanskrit

दण्डिनः पदलालित्यम् | Essay on Dandinah Padalalityam in Sanskrit

0
10615

दण्डिनः पदलालित्यम्

केनापि समालोचकेन यदा ‘उपमा कालिदासस्य ‘इति श्लोकस्य संरचना कृता। तदा अस्य तृतीये चरणे पदलालित्याय महाकविदण्डिनः प्रशंसा कृता विद्यते। कविकुलललामभूतः महाकविरयं संस्कृतसाहित्यजगति सुविख्यातोऽस्ति। अनेन ‘दशकुमारचरितम्’ नाम गद्यमयं काव्यं, ‘काव्यादर्शः ‘अलङ्कारमयः ग्रन्थः, छन्दशास्त्रस्य कृतिः छन्दोविचित्तिश् चेति विरचिता। अस्य महाकवेः कृतीनां विषये राजशेखरेण कथितं स्वग्रन्थे –

त्रयोऽग्नय स्त्रयो देवा-
स्त्रयो वेदास्त्रयो गुणाः।
त्रयो दण्डिप्रबन्धाश्च
त्रिषु लोकेषु विश्रुताः।।

केचिद् विद्वांसः ‘अवन्तिसुन्दरी कथा ‘नामकं गद्यकाव्यम् अपि अस्य खलु अन्यां रचनां मन्यन्ते। दशकुमारचरिते नाम्नि काव्ये दशसंख्यकानां राजकुमाराणां कथा निबद्धा वर्तते। कथायाम् अस्यां विविधेषु देशेषु भ्रमतानां तेषां कुमाराणां पराक्रमस्य यशोगाथा लालित्यपूर्णया शैल्या उल्लिखिता अस्ति।

काव्यस्य अस्य भाषा अतीव सरला, सरसा, सुमधुरा, श्लिष्टा च वर्तते। राजहंसस्य सुषमावर्णनप्रसङ्गे भाषा सौष्ठवं अतीवाकर्षकं सञ्जातम्। दशकुमारचरितम् त्रिभागैः सुगुम्फितम् अस्ति, पूर्वपीठिका, चरितम्, उत्तरपीठिका चेति, अष्टोच्छ्वासेषु निबद्धम् एतत् गद्यकाव्यम्, वस्तुतः महाकवेः कीर्तिपताका इव राजते। यद्यपि केचिद् समालोचकाः अस्य काव्यस्य भाषया केवलं मध्यभागं एव दण्डिना कृतं मन्यन्ते।

यदा कोऽपि पाठकः एतत् काव्यं पठति, सः खलु अत्र सरसताम् अनुभवति। तस्य जीवनस्य अनुभूतयः नेत्रयोः समक्षे अवतरन् इव प्रतिभान्ति। राजहंसस्य तस्य पत्न्याः वसुमत्याः वर्णनप्रसङ्गे एतत् माधुर्यं पदलालित्यं च दर्शनीयम्-

“राजहंसो नाम धनदर्पकन्दर्पसौन्दर्यसोदर्यहृद्य निरवद्यरूपो भूपो बभूव। तस्य वसुमती नाम सुमती लीलावती कुलशेखरमणी रमणी बभूव।”

अस्मिन् काव्ये कविना भावानुसारिणी शब्दयोजना कृता। प्रकृतिचित्रणं अस्य महाकवेः विशेषं मनोज्ञं वर्तते, वस्तुविन्यासश्च वैचित्र्यपूर्णः अस्ति। वर्णनेषु अत्र सर्वत्र स्वाभाविकता परिलक्ष्यते। पदे पदे च शब्दयोजनासौष्ठवं रसाभिव्यक्तिश्च अनुभूयते। महाकवेः पदलालित्यस्य एकं उदाहरणं प्रायः सर्वेः समालोचकैः प्रस्तूयते। वर्णनेऽस्मिन् राजकुमाराः विजयार्थ प्रस्थानं कुर्वन्ति –

“कुमारा माराभिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेन यानेनाभ्युदयाशंसं राजानमकार्षुः।”

अस्य महाकवेः रुचिः प्रश्लिष्टेषु पदेषु न दृश्यते सुबन्धु इव। नैव च अस्य कृतौ महाकवि-बाणवत् समासानां दीर्घासरणि प्रयुक्ता विद्यते, किन्तु अस्य काव्ये प्रसादगुणयुक्तानि ललितललितानि पदानि एव दरीदृश्यन्ते। भावगर्भितानि एतानि वस्तुतः सर्वेभ्यः एव रसिकहृदयेभ्यः रोचन्ते। अनेनैव अस्य कवेः काव्यम् अवलोक्य केनापि कविना कथितम्-

‘कविर्दण्डी कविर्दण्डी कविर्दण्डी न संशयः’

अनेन कविना दशकुमारचरितस्य सप्तमे उच्छ्‌वासे एका विच्छित्ति अद्भुता प्रदर्शिता। यत् सम्पूर्णेऽस्मिन् उच्छ्वासे एकस्यापि औष्ट्यवर्णस्य प्रयोगः न कृतः। पुनरपि नैव आयास साध्या शैलीयं प्रयुक्ता कविना। भाषायां च तदैव स्वाभाविकता प्रवाहः च दृश्यते यथा अन्यत्र अस्ति। यथा-

“आर्य, कदर्यस्यास्य कदर्थनान्न कदाचिन्निद्रायाति नेत्रे। “सखे ! सैषा सज्जनाचरिता सरणिः, यदणीयसि कारणेऽनणीयानादरः संदृश्यते। “

अनेन प्रकारेण स्पष्टं भवति यत् दण्डिनः कृतिरियं लालित्यपदवैशिष्ट्यसंयुक्ता। अस्याः प्रत्येकं वर्णनं माधुर्यान्वितेन रमणीयतां आवहति इति। अस्य महाकवेः सुस्पष्टां कोमल-कान्तपदान्वितां पदावलीम् अवलोक्य केनापि प्रशंसकेन भणितम् एतत्-

“कविरवि रुदितो दण्डी भूमण्डले मण्डलीभूतः सततम्।
यस्य हि कविता सार्थं सुधासदृशं बुधा भजन्ते।।”


LEAVE A REPLY

Please enter your comment!
Please enter your name here